षोडश मातृका मंडल |
|
षोडशमातृका पूजा विधि – आवाहन मंत्र, पूजा मंत्र
षोडश मातृका आवाहन मंत्र :-
१. गणपति – ॐ गणानान्त्वा गणपति ᳪ हवामहे प्रियाणान्त्वा प्रियपति ᳪ हवामहे निधीनान्त्वा निधिपतिᳪ हवामहे व्वसो मम आहमजानि गर्भधमात्त्वमजासि गर्भधम् ।। ॐ लम्बोदरं महाकायं गजवक्त्रं चतुर्भुजं । आवाहयाम्यहमं देवं गणेशं सिद्धिदायकम् ।। ॐ भूर्भुवः स्वः गणपते इहागच्छ इह तिष्ठ । ॐ भूर्भुवः स्वः गणपतये नमः ।
२. गौरी – ॐ आयङ्गौः पृश्निरक्रमीदसदन्मातरं पुरः । पितरं च प्रयत्न्स्वः ॥ ॐ भूर्भुवः स्वः गौरि इहागच्छ इह तिष्ठ। ॐ भूर्भुवः स्वः गौर्यै नमः।
३. पद्मा – ॐ हिरण्यरूपा ऽउषसो व्विरोक ऽउभाविन्दा ऽउदिथः सूर्यश्च । आरोहतं व्वरुण मित्र गर्तं ततश्श्चक्षाथामदितिं दितिञ्च मित्रोऽसि व्वरुणोऽसि ॥ ॐ भूर्भुवः स्वः पद्मे इहागच्छ इह तिष्ठ। ॐ भूर्भुवः स्वः पद्मायै नमः।
४. शची – ॐ निवेशनः सङ्गमनो व्वसूनां विश्वा रूपाभिचष्टे शचीभिः ।देवऽइव सविता सत्यधर्मेन्द्रो न तस्त्थौ समरे पथीनाम् ॥ ॐ भूर्भुवः स्वः शचि इहागच्छ इह तिष्ठ। ॐ भूर्भुवः स्वः शच्यै नमः।
५. मेधा – ॐ मेधां मे व्वरुणो ददातु मेधामग्निः प्रजापतिः। मेधामिन्द्रश्च व्वायुश्श्च मेधां धाता ददातु मे स्वाहा ॥ ॐ भूर्भुवः स्वः मेधे इहागच्छ इह तिष्ठ। ॐ भूर्भुवः स्वः मेधायै नमः।
६. सावित्री – ॐ सविता त्त्वा सवाना ᳪ सुवतामग्निर्गृहपतीना ᳪ सोमो वनस्पतीनाम् ।बृहस्पतिर्वाचऽइन्द्रो ज्ज्यैष्ठ्यायरूद्रः पशुब्भ्यो मित्रः सत्त्यो व्वरुणो धर्मपतीनाम् ॥ ॐ भूर्भुवः स्वः सावित्रि इहागच्छ इह तिष्ठ। ॐ भूर्भुवः स्वः सावित्र्यै नमः।
७. विजया – ॐ विज्ज्यन्धनुः कपर्दिनो व्विशल्यो बाणवाँ२ ऽउत । अनेशन्नस्य या ऽइषव ऽआभुरस्य निषङ्गधिः॥ ॐ भूर्भुवः स्वः विजये इहागच्छ इह तिष्ठ। ॐ भूर्भुवः स्वः विजयायै नमः।
८. जया – ॐ बह्वीनां पिता ब्बहुरस्य पुत्रश्चिश्श्चाकृणोति समनावगत्य ।इषुधि: सङ्काः पृतनाश्च सर्वाः पृष्ठे निनद्धो जयति प्रसूतः ॥ ॐ भूर्भुवः स्वः जये इहागच्छ इह तिष्ठ। ॐ भूर्भुवः स्वः जयायै नमः।
९. देवसेना – ॐ इन्द्रऽआसान्नेता बृहस्पतिर्दक्षिणा यज्ञः पुर ऽएतु सोमः । देवसेनानामभिभञ्जतीनां जयन्तीनां मरुतो यन्त्वग्रम् ॥ ॐ भूर्भुवः स्वः देवसेने इहागच्छ इह तिष्ठ। ॐ भूर्भुवः स्वः देवसेनायै नमः।
१०. स्वधा – ॐ पितृभ्यः स्वायिब्भ्यः स्वधा नमः पितामहेभ्यः स्वायिब्भ्यः स्वधा नमः प्रपितामहेभ्यः स्वायिब्भ्यः स्वधा नमः। अक्षन्न्पितरोऽमीमदन्त पितरोऽतीतृपन्त पितरः, पितरो शुन्धद्ध्वम् ॥ ॐ भूर्भुवः स्वः स्वधे इहागच्छ इह तिष्ठ। ॐ भूर्भुवः स्वः स्वधायै नमः।
११. स्वाहा – ॐ स्वाहा प्राणेब्भ्यः साधिपतिकेब्भ्यः । पृथिव्यै स्वाहाग्नये स्वाहान्तरिक्षाय स्वाहा व्वायवे स्वाहा। दिवे स्वाहा सूर्याय स्वाहा॥ ॐ भूर्भुवः स्वः स्वाहे इहागच्छ इह तिष्ठ। ॐ भूर्भुवः स्वः स्वाहायै नमः।
११. मातृ – ॐ आपोऽअसम्मान्मातरः शुन्धयन्तु घृतेन तो घृतप्वः पुनन्तु । विश्व ᳪ हि रिप्रं प्रवहन्ति देवीरुदिदाब्भ्यः शुचिरा पूतऽएमि । दीक्षातपसोस्तनूरसि तां त्वा शिवा ᳪ शग्मां परिदधे भद्रं व्वर्णं पुष्यन्॥ ॐ भूर्भुवः स्वः मातर इहागच्छ इह तिष्ठ। ॐ भूर्भुवः स्वः मातृभ्यो नमः।
१२. लोकमातृ – ॐ रयिश्च मे रायश्च मे पुष्टंचमे पुष्टिश्च मे विभुचमे प्रभुच मे पूर्ण्णं च मे पूर्णतरं च मे कुयवं चमऽक्षितं च मेऽन्नं च मेऽक्षुच्च मे यज्ञेन कल्पन्ताम् ॥ ॐ भूर्भुवः स्वः लोकमातर इहागच्छ इह तिष्ठ। ॐ भूर्भुवः स्वः लोकमातृभ्यो नमः।
१३. धृति – ॐ यत्प्रज्ञानमुत चेतो धृतिश्च्च यज्ज्योतिरन्तरमृतं प्रजासु ।यस्मान्नऋते किञ्च न कर्म क्रियते तन्मे मनः शिवसंकल्प्पमस्तु ॥ ॐ भूर्भुवः स्वः धृते इहागच्छ इह तिष्ठ। ॐ भूर्भुवः स्वः धृत्यै नमः।
१४. पुष्टि – ॐ अङ्गान्न्यात्मन्न्भिषजा तदश्विनात्मानमङ्गैः समधात्सरस्वती ।इन्द्रस्य रूप ᳪ शतमानमायुश्चन्द्रेण ज्योतिरमृतं दधानाः॥ ॐ भूर्भुवः स्वः पुष्टे इहागच्छ इह तिष्ठ। ॐ भूर्भुवः स्वः पुष्टयै नमः।
१५. तुष्टि – ॐ जातवेदसे सुनवाम सोममरातीयतो निदहाति वेदः । सनः पर्षदति दुर्गाणि विश्वा नावेव सिन्धुन्दुरितात्यग्निः ॥ ॐ भूर्भुवः स्वः तुष्टे इहागच्छ इह तिष्ठ। ॐ भूर्भुवः स्वः तुष्टयै नमः।
१६. आत्मनः कुलदेवता – ॐ प्राणाय स्वाहाऽपानाय स्वाहा ळ्यानाय स्वाहा ।चक्षुषे स्वाहा क्षोत्राय स्वाहा व्वाचे स्वाहा मनसे स्वाहा ॥ ॐ भूर्भुवः स्वः आत्मनः कुलदेवते इहागच्छ इह तिष्ठ। ॐ भूर्भुवः स्वः आत्मनः कुलदेवतायै नमः।
प्राणप्रतिष्ठा (अक्षत पुष्प से प्राण-प्रतिष्ठा करें) : ॐ मनो जूतिर्ज्जुषतामाज्ज्यस्य बृहस्पतिर्य्यज्ञमिमं तनोत्वरिष्टं य्यज्ञ ᳪ समिमं दधातु। विश्वे देवासऽइह मादयन्तामों ३ प्रतिष्ठ ॥ ॐ भूर्भुवः स्वः गणपति दुर्गा श्री सहिताः गौर्यादि षोडश मातरः इहागच्छत इह तिष्ठत।
षोडश मातृका पूजन मंत्र :–
ॐ भूर्भुवः स्वः गणपति दुर्गा श्री सहिताः गौर्यादि षोडश मातृभ्यो नमः।
नमस्कार मंत्र :-
फल लेकर प्रणाम करे – ॐ आयुरारोग्यमैश्वर्यं ददध्वं मातरो मम । निर्विघ्नं सर्वकार्येषु कुरुध्वं सगणाधिपाः ॥ फल अर्पण करे।
प्रणाम करे – गेहे वृद्धिशतानि भवंतु, उत्तरे कर्मण्यविघ्नमस्तु ।
पुष्पाञ्जलि मंत्र :-
पुष्पाञ्जलि – ॐ गौरी पद्मा शची मेधा सावित्री विजया जया । देवसेना स्वधा स्वाहा मातरो लोकमातरः ॥ धृतिः पुष्टिस्तथा तुष्टिरात्मनः कुलदेवता । गणेशेनाधिका ह्येता वृद्धौ पूज्याश्च षोडश ॥