गणपत्यथर्वशीर्ष तो कर्मकांड की पुस्तकों में सरलता से उपलब्ध है और सबको मिल जाती है। किन्तु यदि इसके पुरश्चरण प्रयोग अर्थात पुरश्चरण विधि की बात करें तो ढूंढते ही रह जाते हैं। यह आलेख इसलिये विशेष महत्वपूर्ण हो जाता है क्योंकि यहां गणपत्यथर्वशीर्ष पुरश्चरण विधि (ganpati atharvashirsha purashcharan vidhi) दी गयी है।
गणपत्यथर्वशीर्ष पुरश्चरण विधि – ganpati atharvashirsha purashcharan vidhi
यह आवश्यक है कि जो कुछ किसी अन्य से प्रत्यक्ष प्राप्त हो और यथावत प्रस्तुत किया जाय तो उसका श्रेय भी उन्हें दिया जाना चाहिये। हमें यह गणपत्यथर्वशीर्ष पुरश्चरण प्रयोग विद्या वारिधि आचार्य दीनदयाल मणि त्रिपाठी जी से प्राप्त है अतः इसका श्रेय उन्हीं को प्राप्त होता है। हमें जैसा प्राप्त हुआ वह यथावत प्रस्तुत किया जा रहा है, इस प्रयोग को संपन्न कराने में विद्वान कर्मकांडी ही सक्षम होंगे। यदि यथावत समझना कठिन हो तो वो इस प्रयोग को कराने की योग्यता नहीं रखता है यही सिद्ध होगा।
॥ गणेशाथर्वशीर्ष पुरश्चरण विधि: ॥
आचम्य प्राणानायम्य देशकालौ संकीर्त्य संकल्प: कार्य: ।
ॐ ………. अमुकगोत्रोत्पन्नस्य अमुकशर्मण: मम पत्नीपुत्रभ्रात्रादिसहितस्य सर्वापच्छान्तिपूर्वक-दीर्घायुर्विपुलधनधान्य पुत्रपौत्राद्यविच्छिन्नसन्तति – स्थिरलक्ष्मी – शत्रुपराजय – वाञ्छितफलावाप्तये गणेशलोकावाप्ति कामोऽहं-कर्माङ्ग देवता गणेश प्रसाद सिद्धये श्री-ऋद्धि-बुद्धिसहितमहागणपतिप्रीत्यर्थं – दशखण्डात्मक गणेशाथर्वशीर्षस्य सहस्रावृत्ति जपरूप पुरश्चरणस्य कलौ चतुर्गुणितत्वात् चतुस्सहस्रावृत्तिजपं स्वयं वा ब्राह्मणद्वारा अद्यारभ्य समाप्तिदिनपर्यंन्तं करिष्ये ॥
निर्विघ्नतासिद्धयर्थं गणेशपूजनं स्वस्तिपुण्याहवाचनं तथा च ब्राह्मणावरणं देवतास्थापनं च करिष्ये ॥
गणेश पूजा संकल्प : ॐ …….. पूर्वसंकल्पित – दशखण्डात्मक – गणेशाथर्वशीर्षस्य सहस्रावृत्ति जपरुपपुरश्चरणाङ्गभूतं मुखदेवता गणेशप्रीत्यर्थं आवाहनादि पूजां करिष्ये ॥
ततश्च अष्टदलं विलिख्य ‘महीद्यौदित्यादिमन्त्रै: कलशं संस्थाप्य “पूर्वादर्वी” मन्त्रेन पूर्णपात्रं निधाय, तन्मध्ये सौवर्णगणेशप्रतिमां अग्न्युत्तारणप्राणप्रतिष्ठापूर्वकं गणेशगायत्र्या संस्थापयेत् ।
गणेशगायत्रीमन्त्रोऽयम् – ॐ एकदन्ताय विद्महे वक्रतुण्डाय धीमहि तन्नो दन्ती प्रचोदयात् ॥ एतेन मन्त्रेण षोडशोपचारै: पूजयेत् तन्मध्ये सिन्दूरदूर्वाशमीपत्राणि आवश्यकानि ।
“प्रतिदिनं अथर्वशीर्षस्य शतजपं कृत्वा तज्जपान्ते पंचोपचारपूजनेन श्रीगणेशं निवेदयेत्”
जपसमाप्तिकाले तद्दशांशहवनं कुर्यात् ।
तत्रायं विधि – शुभदिने प्रात:काले शुद्धजलेन स्नात्वा नित्यकर्म कृत्वा गणेशदेवतासमीपे सार्धहस्तमितं कुण्डं वा स्थण्डिलं वा कार्यमास्थण्डिलपार्श्वे यजमान: पत्न्या सह पूर्वाभिमुखो भूत्वा आचम्य प्राणानायम्य संकल्पयेत्।
हवनं संकल्प: – ॐ ……………. मया वाञ्छितफलसिद्धयर्थं श्रीऋद्धिसिद्धिसहितमहागणपतिप्रीत्यर्थं ब्राह्मणद्वारा दशखण्डात्मक-गणेशाथर्वशीर्षस्य चतु:सहस्रावृत्तिरपपुरश्चरणस्य साङ्गतासिद्ध्यर्थं तत्संपूर्णफलप्राप्त्यर्थं तद्दशांशेन गणेशाथर्वशीर्षस्य चतु:शतावृत्तिभि: गोधूमपिष्टनिर्मित-तिलशर्कराएलाबीजादिपूरित घृतपाचित-चतु:सहस्र मोदक हवनं करिष्ये ॥
तथा च कामनानुरूपेण संकल्प: कार्य: ।
- वाञ्छितफलप्राप्तिरहं तद्दशांशदूर्वाङ्कुरहवनं करिष्ये ।
- वैश्रवणोपमप्राप्तिकामोऽहं तद्दशांशधानाद्रव्यहवनं करिष्ये ।
- यशोत्तमबुद्धिप्राप्तिकामोऽहं आज्यपरिप्लुतसमिद्धवनं करिष्ये।
ततश्च निर्विघ्नतासिद्धयर्थं गणेशपूजनं कृत्वा पुण्याहवाचनादिनान्दीश्राद्धान्तं कृत्वा आचार्यवरणपूर्वकं आचार्यं सम्पूज्य प्रार्थयेत् “आचार्यस्त्वं” इति मन्त्रेण ।
गौर्यादिमातृकानां विसर्जनं कृत्वा आचार्य: स्वयं संकल्पयेत् । अमुकगोत्रोल्पन्नेन अमुकशर्मणा यजमानेन पूर्वसंकल्पित-तद्दशांशहवनार्थं वृतोऽहं तत्कर्मसिद्धयर्थं आचार्यकर्म करिष्ये ।
प्रथमं तावत् स्थण्डिले बलवर्धननामाग्निं प्रतिष्ठाप्य “चत्वारि शृंगा” मन्त्रेण ध्यानं कृत्वा अन्वाधानं कुर्यात् ।
संकल्प – अद्य क्रियमाणे दशखण्डात्मकगणेशाथर्वशीर्षस्य चतुश्शतावृत्तिरूपपुरश्चरणजपदशांशहोमे देवतापरिग्रहार्थं अन्वाधनं करिष्ये ।
ततश्च प्रधानदेवतागणपतिं चतुश्शतसंख्याभि: गणेशाथर्वशीर्षावृत्तिभि: प्रतिखण्डं पूर्वोक्तमोदकद्रव्येणाहं यक्ष्ये इति संकल्प्य हवनं कार्यम् ।
तदनन्तरं प्रतीताविमोकपर्यन्तं कृत्वा अग्निं पूजयेत् । विभूतिधारणं कृत्वा (विभूतिवंदनम्) आवाहितदेवतानां तथा च गणेशदेवताया: उत्तरपूजां कुर्यात्। बलिदानम् कृत्वा पूर्णाहुतिम् दत्वा कृतं सर्वं कर्म ईश्वरार्पणं कुर्यात् । “गच्छ गच्छ” इति मन्त्रेण अग्निविसर्जनं कृत्वा तर्पणविधिं संकल्पयेत् ।
संकल्प :–अद्य फलप्राप्त्यर्थं गणेशाथर्वशीर्षस्य दशखण्डात्मकपूर्वसंकल्पितपुरश्चरन-दशांशहवनकृतस्य-हवनदशांशतर्पणं करिष्ये । अष्टभि: ब्राह्मणै: अथर्वशीर्षं पंचवारमुच्चार्य कृतं गणपतितर्पणं (दशखण्डात्मकं) गणेशार्पणं कुर्यात् ।
ततश्च मार्जनम् –
संकल्प :-अद्य. फलप्राप्त्यर्थं पूर्वसंकल्पितगणेशाथर्वशीर्षस्य तर्पणदशांशमार्जनं करिष्ये । चतुर्भि: ब्राह्मणै: एकवारं ॐ कारपूर्वकं अथर्वशीर्षं उक्त्वा यजमानमभिषिंचेत् ।
ततश्च गणेशाथर्वविधानसाङ्गतासिदध्यर्थं –
संकल्प :- मया कृतस्य आचार्यादिब्राह्मणद्वारा दशखण्डात्मक-गणेशाथर्वशीर्षस्य, चतु:सहस्र संख्याजपस्य मोदकद्रव्येण तद्दशांशहवनस्य, हवनदशांशतर्पणस्य, तर्पणदशांशमार्जनस्य तत्साङ्गतासिध्द्यर्थं तत्सम्पूर्णफलप्राप्त्यर्थं तत्कर्मकर्तृगां आचार्याणां पूजनं, आचार्याय गोप्रदानं, हवनादिकर्तृभ्य: ब्राह्मणेभ्य: दक्षिणाप्रदानं, कर्माङ्गदेवताप्रीत्यर्थं यथाकालं यथोपपन्नेनान्नेन ब्राह्मणसुवासिनी कुमार कुमारिका: चतुर्विधान्नेनाहं भोजयिष्ये ।
अनेन कृतेन कर्मणा श्रीमहागणपति: प्रीयताम् । श्रीमहागणपत्यर्पणमस्तु ।
॥ इति श्रीगणेशाथर्वशीर्षपुरश्चरणविधि: ॥
- गणेश पूजन विधि मंत्र सहित
- गौरी पूजन मंत्र और विधि
- शिव षोडशोपचार पूजन विधि मंत्र
- द्वात्रिंशोपचार शिव पूजा विधि मंत्र
- उमा महेश्वर पूजा विधि और मंत्र
- पार्थिव शिवलिंग पूजन विधि और मंत्र
- आगमोक्त विष्णु पूजा मंत्र और विधि
- आगमोक्त त्रिंशोपचार विष्णु पूजा विधि और मंत्र
- भगवान श्री राम पूजा विधि और मंत्र
- भगवान श्री कृष्ण पूजा विधि और मंत्र
- भगवान श्री हनुमान पूजा विधि मंत्र
गणपत्यथर्वशीर्ष – ganpati atharvashirsha
ॐ भद्रं कर्णेभिः शृणुयाम देवा ।
भद्रं पश्येमाक्षभिर्यजत्राः ॥
स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिः ।
व्यशेम देवहितं यदायुः ॥
ॐ स्वस्ति न इन्द्रो वृद्धश्रवाः ।
स्वस्ति नः पूषा विश्ववेदाः ॥
स्वस्तिनस्तार्क्ष्यो अरिष्टनेमिः ।
स्वस्ति नो बृहस्पतिर्दधातु ॥
ॐ तन्मामवतु तद् वक्तारमवतु
अवतु माम् अवतु वक्तारम्
ॐ शांतिः । शांतिः ॥ शांतिः॥।
॥ उपनिषत् ॥
हरिः ॐ नमस्ते गणपतये ॥
त्वमेव प्रत्यक्षं तत्त्वमसि ॥ त्वमेव केवलं कर्ताऽसि ॥
त्वमेव केवलं धर्ताऽसि ॥ त्वमेव केवलं हर्ताऽसि ॥
त्वमेव सर्वं खल्विदं ब्रह्मासि ॥
त्वं साक्षादात्माऽसि नित्यम् ॥१॥
॥ स्वरूप तत्त्व ॥
ऋतं वच्मि ॥ सत्यं वच्मि॥२॥
अव त्वं माम् ॥ अव वक्तारम् ॥ अव श्रोतारम् ॥
अव दातारम् ॥ अव धातारम् ॥
अवानूचानमव शिष्यम् ॥
अव पश्चात्तात् ॥ अव पुरस्तात् ॥
अवोत्तरात्तात् ॥ अव दक्षिणात्तात् ॥
अव चोर्ध्वात्तात् ॥ अवाधरात्तात् ॥
सर्वतो मां पाहि पाहि समंतात् ॥३॥
त्वं वाङ्मयस्त्वं चिन्मयः ॥
त्वमानंदमयस्त्वं ब्रह्ममयः ॥
त्वं सच्चिदानंदाद्वितीयोऽसि ॥
त्वं प्रत्यक्षं ब्रह्मासि ॥
त्वं ज्ञानमयो विज्ञानमयोऽसि ॥४॥
सर्वं जगदिदं त्वत्तो जायते ॥
सर्वं जगदिदं त्वत्तस्तिष्ठति ॥
सर्वं जगदिदं त्वयि लयमेष्यति ॥
सर्वं जगदिदं त्वयि प्रत्येति ॥
त्वं भूमिरापोऽनलोऽनिलो नभः ॥
त्वं चत्वारि वाक्पदानि ॥५॥
त्वं गुणत्रयातीतः त्वमवस्थात्रयातीतः ॥
त्वं देहत्रयातीतः ॥ त्वं कालत्रयातीतः ॥
त्वं मूलाधारस्थितोऽसि नित्यम् ॥
त्वं शक्तित्रयात्मकः ॥
त्वां योगिनो ध्यायंति नित्यम् ॥
त्वं ब्रह्मा त्वं विष्णुस्त्वं रुद्रस्त्वं
इन्द्रस्त्वं अग्निस्त्वं वायुस्त्वं सूर्यस्त्वं चंद्रमास्त्वं
ब्रह्मभूर्भुवःस्वरोम् ॥६॥
॥ गणेश मंत्र ॥
गणादिं पूर्वमुच्चार्य वर्णादिं तदनंतरम् ॥
अनुस्वारः परतरः ॥ अर्धेन्दुलसितम् ॥ तारेण ऋद्धम् ॥
एतत्तव मनुस्वरूपम् ॥ गकारः पूर्वरूपम् ॥
अकारो मध्यमरूपम् ॥ अनुस्वारश्चान्त्यरूपम् ॥
बिन्दुरुत्तररूपम् ॥ नादः संधानम् ॥
संहितासंधिः ॥ सैषा गणेशविद्या ॥
गणकऋषिः ॥ निचृद्गायत्रीच्छंदः ॥
गणपतिर्देवता ॥ ॐ गं गणपतये नमः ॥७॥
॥ गणेश गायत्री ॥
एकदंताय विद्महे । वक्रतुण्डाय धीमहि ॥ तन्नो दंतिः प्रचोदयात् ॥८॥
॥ गणेश रूप ॥
एकदंतं चतुर्हस्तं पाशमंकुशधारिणम् ॥
रदं च वरदं हस्तैर्बिभ्राणं मूषकध्वजम् ॥
रक्तं लंबोदरं शूर्पकर्णकं रक्तवाससम् ॥
रक्तगंधानुलिप्तांगं रक्तपुष्पैः सुपूजितम् ॥
भक्तानुकंपिनं देवं जगत्कारणमच्युतम् ॥
आविर्भूतं च सृष्ट्यादौ प्रकृतेः पुरुषात्परम् ॥
एवं ध्यायति यो नित्यं स योगी योगिनां वरः ॥ ९॥
॥ अष्ट नाम गणपति ॥
नमो व्रातपतये । नमो गणपतये । नमः प्रमथपतये ।
नमस्तेऽस्तु लंबोदरायैकदंताय ।
विघ्ननाशिने शिवसुताय । श्रीवरदमूर्तये नमो नमः ॥१०॥
॥ फलश्रुति ॥
एतदथर्वशीर्षं योऽधीते ॥ स ब्रह्मभूयाय कल्पते ॥
स सर्वतः सुखमेधते ॥ स सर्व विघ्नैर्नबाध्यते ॥
स पंचमहापापात्प्रमुच्यते ॥
सायमधीयानो दिवसकृतं पापं नाशयति ॥
प्रातरधीयानो रात्रिकृतं पापं नाशयति ॥
सायंप्रातः प्रयुंजानो अपापो भवति ॥
सर्वत्राधीयानोऽपविघ्नो भवति ॥
धर्मार्थकाममोक्षं च विंदति ॥
इदमथर्वशीर्षमशिष्याय न देयम् ॥
यो यदि मोहाद्दास्यति स पापीयान् भवति
सहस्रावर्तनात् यं यं काममधीते
तं तमनेन साधयेत् ॥११॥
अनेन गणपतिमभिषिंचति स वाग्मी भवति ॥
चतुर्थ्यामनश्नन् जपति स विद्यावान् भवति ।
स यशोवान् भवति ॥ इत्यथर्वणवाक्यम् ॥
ब्रह्माद्यावरणं विद्यात् न बिभेति कदाचनेति ॥१२॥
यो दूर्वांकुरैर्यजति स वैश्रवणोपमो भवति ॥
यो लाजैर्यजति स यशोवान् भवति ॥ स मेधावान् भवति ॥
यो मोदकसहस्रेण यजति स वाञ्छितफलमवाप्नोति ॥
यः साज्यसमिद्भिर्यजति स सर्वं लभते स सर्वं लभते ॥ १३॥
अष्टौ ब्राह्मणान् सम्यग्ग्राहयित्वा सूर्यवर्चस्वी भवति ॥
सूर्यग्रहे महानद्यां प्रतिमासंनिधौ वा जप्त्वा सिद्धमंत्रो भवति ॥
महाविघ्नात्प्रमुच्यते ॥ महादोषात्प्रमुच्यते ॥ महापापात् प्रमुच्यते ॥
स सर्वविद्भवति स सर्वविद्भवति ॥ य एवं वेद इत्युपनिषत् ॥१४॥
॥ शान्ति मंत्र ॥
ॐ सहनाववतु ॥ सहनौभुनक्तु ॥ सह वीर्यं करवावहै ॥
तेजस्विनावधीतमस्तु मा विद्विषावहै ॥
ॐ भद्रं कर्णेभिः शृणुयाम देवा ।
भद्रं पश्येमाक्षभिर्यजत्राः ॥
स्थिरैरंगैस्तुष्टुवांसस्तनूभिः ।
व्यशेम देवहितं यदायुः ॥
ॐ स्वस्ति न इन्द्रो वृद्धश्रवाः ।
स्वस्ति नः पूषा विश्ववेदाः ॥
स्वस्तिनस्तार्क्ष्यो अरिष्टनेमिः ।
स्वस्ति नो बृहस्पतिर्दधातु ॥
ॐ शांतिः । शांतिः ॥ शांतिः ॥।
॥ इति श्रीगणपत्यथर्वशीर्षं सम्पूर्णं ॥
कर्मकांड सीखें में शास्त्रोक्त प्रमाणों के साथ प्रामाणिक चर्चा की जाती है एवं कई महत्वपूर्ण विषयों की चर्चा पूर्व भी की जा चुकी है। तथापि सनातनद्रोही उचित तथ्य को जनसामान्य तक पहुंचने में अवरोध उत्पन्न करते हैं। एक बड़ा वैश्विक समूह है जो सनातन विरोध की बातों को प्रचारित करता है। गूगल भी उसी समूह का सहयोग करते पाया जा रहा है अतः जनसामान्य तक उचित बातों को जनसामान्य ही पहुंचा सकता है इसके लिये आपको भी अधिकतम लोगों से साझा करने की आवश्यकता है।