नारायण बलि दुर्मरण दोष निवारण करने हेतु किया जाने वाला श्राद्ध कर्म है। नारायण बलि में 16 पिण्ड दान किया जाता है। नाग बलि सर्प दोष या कालसर्प दोष निवारण करने हेतु की जाने वाली सर्प पूजा विधि का नाम है। नाग बलि में द्वादश प्रकार के सर्पों की विशेष विधि से पूजा आदि किया जाता है। मुख्य नारायण बलि श्राद्ध विधि “संपूर्ण कर्मकांड विधि” पर प्रकाशित है यदि उसका अवलोकन करना चाहें तो यहां क्लिक करके कर सकते हैं। यहां अनुपनीतों के लिये नारायण बलि करने की विधि (narayan bali vidhi) बताई गयी है।
अनुपनीतों के लिये पुराणोक्त नारायण बलि करने की विधि – narayan bali vidhi
यह आवश्यक है कि जो कुछ किसी अन्य से प्रत्यक्ष प्राप्त हो और यथावत प्रस्तुत किया जाय तो उसका श्रेय भी उन्हें दिया जाना चाहिये। हमें यह अनुपनीत नारायण बलि विधि विद्या वारिधि आचार्य दीनदयाल मणि त्रिपाठी जी से प्राप्त है अतः इसका श्रेय उन्हीं को प्राप्त होता है। हमें जैसा प्राप्त हुआ वह यथावत प्रस्तुत किया जा रहा है, इस प्रयोग को संपन्न कराने में विद्वान कर्मकांडी ही सक्षम होंगे।
जिन्हें नारायण बलि श्राद्ध विधि का ज्ञान है उनके लिये यह विधि सरलता से समझने योग्य है किन्तु जिनको नारायण बलि विधि का ज्ञान नहीं है उनके लिये समझना कठिन हो सकता है।
॥ पुराणोक्त नारायणबलिः ॥
शुक्लैकादश्यां पंचम्यां श्रवणेन वा नदीतीरे देवालयादौ वा नारायणबलिः कार्यः ।
। तत्प्रयोगः स्थापयेत् ।
यद्वा विष्णुः स्वर्णमयः । ब्रह्मा रूप्यमयः । शिव स्त्रपुमयः । यमो लोहमयः । प्रेतश्च ॥
यजमानः आचम्य पवित्रपाणिः देशकालौ संकीर्त्य मदीयकुलाभिवृद्धिप्रतिबंधक-प्रेतस्य प्रेतत्वनिवृत्ति-द्वारा सर्वोपद्रवशमनपूर्वकं कुलाभिवृद्ध्यर्थं नारायणबलिं करिष्ये ॥
इति संकल्प्य गोमयोपलिप्तभूमौ व्रीहीणां यवानां वा पुंजेषु ॥ सर्वसस्याश्रया भूमिः ।।
इति मंत्रावृत्योदक्संस्थं
- भूमिं स्पृष्ट्वा ‘यासामाप्यायकः सोमः’ इति धान्यराशीन् कृत्वा
- ‘कलशस्य मुखे विष्णुः’ इति मंत्रावृत्त्या पंचकुंभान् संस्थाप्य
- ‘गंगे च यमुने चैव’ इत्युदकं पूरयित्वा
- ‘मलयाचलसंभूतं’ इति गंधं क्षित्वा
- ‘त्वं दूर्वेऽमृतजन्मासि’ इति दूर्वा :
- ‘गजाश्वरथ्यावल्मीक’ इति सप्तमृदः
- ‘कुष्ठं मांसी हरिद्रे द्वे‘ इति सर्वोषधीः
- ‘गोमूत्रं गोमयं क्षीरं’ इति पंचगव्यं
- ‘गव्यं क्षीरं दधि तथा’ इति पंचामृतं
- ‘उदुंबरवटाश्वत्थ’ इति पंचपल्लवान्
- ‘कनकं कुलिशं चैव’ इति पंचरत्नानि
- ‘हिरण्यगर्भगर्भस्थं’ इति हिरण्यं
- ‘फलेन फलितं सर्व’ इति फलानि
- ‘सितं सूक्ष्मं सुखस्पर्श’ इति वस्त्रेण वेष्टयित्वा
- ‘पूर्णपात्रमिदं दिव्यं’ इति पूर्णपात्राणि निधाय
- ‘सर्वे समुद्राः सरितः’ इति ‘गंगे च यमुने चैव’ इति च मंत्राभ्यां कलशानभिमंत्रयेत् ।
तेषु क्रमेण विष्णुब्रह्मशिवयमप्रेतानां स्वर्णमयीः प्रतिमाः दर्भमयः । कार्यः । एवमेताः प्रतिमा अग्न्युत्तारणपूर्वकं स्थापनीयाः ।
तंत्र मंत्राः
विष्णु : यस्य स्मरणमात्रेण जन्मसंसारबंधनात् । विमुच्यते नमस्तस्मै विष्णवे प्रभविष्णवे ॥ विष्णो इहागच्छेह तिष्ठ मम पूजां गृहाण वरदो भव । विष्णवे नमः विष्णुमावाहयामि …।
ब्रह्मा : हंसारूढं चतुर्हस्तं रक्तवर्णं चतुर्मुखम्। पद्माद्यायुधयुक्तं च ब्रह्माणं प्रणमाम्यहम् । ब्रम्हन् इहागच्छेह० ब्रम्हणे नमः ब्रह्माणमावाह० …..।
रुद्र : रुद्रो देवो वृषारूढश्चतुर्बाहुस्त्रिलोचनः । त्रिशूलखट्वावरदाभयपाणिर्नमामि तम् ॥ रुद्रेहागच्छेह० रुद्राय नमः रुद्रमावा०…. ।
यम : दंडहस्तं यमं देवं महामहिषवाहनम् । वैवस्वतं पितृपतिं तं नमामि महाबलम् ॥ यमेहा० यमाय नमः यममा … ।
प्रेत : उत्कचं मलिनं क्षीणं क्षुत्तृभ्यां व्याकुलं सदा । निर्मांसं भीषणाकारं प्रेतमावाहयाम्यहम् ॥ प्रेतेहागच्छेह ति० प्रेताय० प्रेतमावह० … ।
इत्यावाह्य तत्तन्मंत्रैः षोडशोपचारैः पूजयेत् ।
ततस्तत्पश्चिमे स्थंडिलं कृत्वा अद्येत्यादि० नारायणबल्यंगहोमं कर्तुं स्थंडिलादि सर्वं कर्म करिष्ये । इति संकल्प्य ।
स्थंडिलोपलेपनोल्लेखनादि कृत्वा बलवर्धननामानमग्निं प्रतिष्ठाप्य ध्यात्वा समिद्द्वयमादाय देशकालौ स्मृत्वा क्रियमाणे नारायणबल्यंगहोमे देवतापरिग्रहार्थमित्यादिचक्षुष्यंतमुक्त्वा अत्र प्रधानं नारायणं षोडशसंख्याभिस्तंदुलाहुतिभिर्यक्ष्ये ।
शेषेणेत्यादि आज्यभागहोमांतं कृत्वा प्रधानहोमं कुर्यात्।
श्रीशं नारायणं देवं वंदेहं कामदं प्रभुम् । लीलया विततं येन तस्मै नित्यं नमो नमः ॥ नारायणाय नमः ॥ इति हुत्वा नारायणायेदं न मम इति त्यजेत् ।
एवं षोडशाहुतीर्हुत्वा स्विष्टकृदादि होमशेषं समापयेत् ।
ततो देशकालौ स्मृत्वा नारायणबल्यंगभूतं पिंडप्रदानं करिष्ये॥ इति संकल्प्य देवतापूर्वभागे दर्भेण दक्षिणसंस्थामेकां रेखां कृत्वा तत्र दक्षिणाग्रैः कुशैरवस्तीर्य
तत्र ‘शुद्धयंतां विष्णुरूपी प्रेतः ‘ इति मंत्रावृत्त्या दशस्थानेष्वपो निनीय तत्र मधुघृताप्लुतांस्तिलमिश्रान् दशपिंडान् दक्षिणामुखः प्राचीनावीती वामं जान्वाच्य पितृतीर्थेन ‘काश्यपगोत्र देवदत्तप्रेत विष्णुरूप अयं ते पिंडोनमः ‘ इति दशपिंडान् दद्यात् ।
ततो ‘दंडहस्तं यमं देवं’ इति मंत्रेण पिंडाननुमंत्र्य शंखोदकेन ‘विष्णुं जिष्णुं महाविष्णुं’ इति मंत्रेणाभिषिच्य ‘काश्यपगोत्र देवदत्तप्रेत विष्णुरूप इदं ते वस्त्रं नमः ‘ इतिमंत्रेण यज्ञोपवीताचमनगंधपुष्पधूपदीपनैवेद्यदक्षिणातांबूलाद्युपचारैरभ्यर्च्य पिंडान् विसर्जयेत् ।
तत: ‘ काश्यपगोत्रं देवदत्तप्रेतं विष्णुरूपं तर्पयामि’ इति तर्पयेत् ।
ततः पुरुषाहारपरिमितपिष्टबलिं गृहीत्वा ब्रह्मविष्णुमहेशानयमश्चैव सकिंकराः । बलिं गृहीत्वा कुर्वंतु प्रेतस्य च शुभां गतिम् । इति संप्रार्थ्य विष्णुब्रह्म रुद्रयमेभ्य इमं बलिं समर्पयामि इति दद्यात् ।
तत: प्रतिदैवतं त्रिविधानि फलानि समर्प्य शर्करागुडमधुसपषि निवेदयेत् । रात्रौ पुराणश्रवणगीतादिना जागरणं कुर्यात् ।
तस्यामेव रात्रौ पंचब्राह्मणान् ‘श्वः करिष्यमाणनारायणबल्यंग श्राद्धार्थं त्वया क्षणः क्रियतां ‘ इत्येवं प्रत्येकं निमंत्रयेत् । स्वयमुपोषणं कुर्यात् ।
ततः श्वोभूते मध्याह्ने विष्ण्वादिदेवता अभ्यर्च्य आचम्य पवित्रपाणिर्देशकालौ स्मृत्वा ‘क्रियमाण नारायणबल्यंगविहितं विष्णुब्रह्मशिवयमप्रेतोद्देशेन एकोद्दिष्टविधिना श्राद्धं करिष्ये’ इति संकल्प्य
ब्राह्मणानुदङ्मुखानुपवेश्य ‘विष्णुरूपब्रह्मणे इदं ते पाद्यं’ ‘सुपाद्यं’ इति ब्राह्मणेन प्रतिवचनं देयम् ।
एवमेन ब्रह्मरूपब्रह्मणे इदं ते पाद्यं सु० । रुद्ररूपब्रह्मणे इदं० सु० । यमरूप ब्रह्मणेदं० सु० । प्रेतस्थानीय विष्णुरूप ब्रह्मणेदं ते पाद्यं सुपा० ।’ इति पाद्यं दत्त्वा
‘विष्णुमावाहयामि । ब्रह्माणमा० रुद्रमा० यममा० प्रेतमा० ‘ इत्यावाह्य विष्णवे । इदमासनं । ब्रह्मणे इदमा० रुद्रस्येदमा० यमाय इद० ॥ काश्यपगोत्रस्य देवदत्तप्रेतस्य विष्णुरूपस्य इदमास० इत्यासनेष्वासनं दद्यात् । ततः विष्णो इदं तेऽर्घ्यं । ब्रह्मन्निदं तेऽर्घ्यं । शिवेदंतेऽर्घ्यं । यमेदं तेऽर्घ्यं । प्रेतइदंते अर्घ्यं । विष्णो पूजार्थे एष ते गंधो नमः । ब्रह्मन् एष ते गं० शिवैषते गं० यम. अषते गंधः । काश्यपगोत्र देवदत्तप्रेत विष्णुरूपैषते गंधो नमः । विष्णो माल्यार्थे इदं पुष्पं तुलसीपत्रसहितं नमः । एवं ब्रह्मन् माल्यार्थे० शिवमाल्यार्थे० यममाल्यार्थे काश्यपगोत्र देवदत्तप्रेत विष्णुरूपमाल्यार्थे० । एवं विष्णुवादिभ्यः धूपदीपाच्छादनालंकारादि यथाविभवं समर्प्य ‘नमो विष्णुवादिभ्यः एते गंधाद्युपचाराः सर्वे परिपूर्णा भवंतु ।
अर्चनविधेः स्वर्चितमस्तु न्यूनं तद्विधिवदस्तु’ ‘अस्तु विधिवत् ‘ इति विप्रा वदेयुः ।
यस्यस्मृत्या च नामोक्त्या श्राद्धकर्म क्रियादिषु । न्यूनं संपूर्णतां याति प्रसादाद्भवतां मम ॥
युष्मदनुज्ञया मंडलादि पात्रासादनं करिष्ये । इति संकल्प्य ततः मंडलादि पात्रासादनं कृत्वा यथाशक्ति चतुर्गुणं समं वा यथा सोपस्करमामान्नं परिवेष्य निवेदयेत् ।
तद्यथा – तृष्णीं परिषिच्य पाणिभ्यां पात्रमालभ्य विष्णवे इदमामान्नं। यथासोपस्करं अस्य ब्राह्मणस्य भोजनपर्याप्तं दत्तममृतरूपेण संपद्यतां नमः । एवं ब्रह्मणे इदमामान्नं । शिवायेदमामान्नं० यमायेदमामान्नं० काश्यपगोत्राय देवदत्तप्रेताय विष्णुरूपायेदमामान्नंयथासो० इति निवेदयेत् ।
ततो ‘नारायणबल्यंग श्राद्धं संपन्नं’ ‘ इति संपन्नतां वाचयित्वा देशकालौ संकीर्त्यं नारायणबलिश्राद्धांगत्वेन पिंडप्रदानं करिष्ये इति संकल्प्य । द्विजाग्रे रेखाकरणं अवनेजनं तूष्णीं कृत्वा । विष्णो अयं ते पिंडो नमः । ब्रह्मन् अयं ते पिंडो नम म । शिव अयं ते पिंडो न मम । यम अयं ते पिंडो न मम । प्रेत अयं ते पिंडो न मम ।
इति पिंडान् दत्वा ‘पिंडस्थ विष्णुब्रह्मशिवयमप्रेतेभ्यः’ इति मंत्रेण आसनपाद्यार्घ्यादिप्रवाहणांतं पिंडार्चन सिद्ध्यर्थं च विष्णुस्थानीयब्राह्मणाय तुभ्यमिमां सतांबूलदक्षिणां प्रतिपादयामि इति सर्वान्द्विजान्दक्षिणाभिः संतोष्य तेष्वेकं गुणवंतं प्रेतस्थानोपविष्टं विप्रं प्रेतबुद्धया वस्त्रालंकारादिभिः संतोष्य विष्णुब्रह्मशिवयमप्रेतानां यद्दत्तं नारायणबल्यंग श्राद्धीयामान्नादि तदक्षय्यमस्त्वति भवंतो ववंतु। इति दर्भयुर्तशंखोदकेनाक्षय्यं दत्त्वा ब्राह्मणान् प्रार्थयेत् ।
भवंतः प्रेतायांजलिदानं अनुज्ञां कुर्वंतु’ ते च अमुकप्रेतायांजलिदानं कुरु इति ब्रूयुः ।
ततः सकुशतिलतुलसीतोयांजलिं गृहीत्वा काश्यपगोत्र अमुकप्रेत विष्णुरूप अयं ते तिलतोयांजलिर्नमः । इति दद्यात् ।
‘अनेन नारायण बलिकर्मणा भगवान् विष्णुरिमं देवदत्तंप्रेतं शुद्धमपापं कर्मार्हं करोतु’ इति भवंतो ब्रुवतु । ते च तथा ब्रूयुः ।
ततो देवतापीठं दत्त्वा : “यस्य स्मृत्या च नामोक्त्या बलिकर्म क्रियादिषु । न्यूनं संपूर्णतां याति सद्यो वंदे तमच्युतम् ॥ मंत्रहीनं क्रियाहीनं० ॥ अनेन नारायणबलिकर्मणा भगवान् प्रेतमोक्षदाता श्रीमहाविष्णुः प्रीयताम् ॥
॥ तत्सद्ब्रह्मार्पणमस्तु ॥
॥ इति नारायणबलिप्रयोगः समाप्तः ॥
- गणेश पूजन विधि मंत्र सहित
- गौरी पूजन मंत्र और विधि
- शिव षोडशोपचार पूजन विधि मंत्र
- द्वात्रिंशोपचार शिव पूजा विधि मंत्र
- उमा महेश्वर पूजा विधि और मंत्र
- पार्थिव शिवलिंग पूजन विधि और मंत्र
- आगमोक्त विष्णु पूजा मंत्र और विधि
- आगमोक्त त्रिंशोपचार विष्णु पूजा विधि और मंत्र
- भगवान श्री राम पूजा विधि और मंत्र
- भगवान श्री कृष्ण पूजा विधि और मंत्र
- भगवान श्री हनुमान पूजा विधि मंत्र
कर्मकांड सीखें में शास्त्रोक्त प्रमाणों के साथ प्रामाणिक चर्चा की जाती है एवं कई महत्वपूर्ण विषयों की चर्चा पूर्व भी की जा चुकी है। तथापि सनातनद्रोही उचित तथ्य को जनसामान्य तक पहुंचने में अवरोध उत्पन्न करते हैं। एक बड़ा वैश्विक समूह है जो सनातन विरोध की बातों को प्रचारित करता है। गूगल भी उसी समूह का सहयोग करते पाया जा रहा है अतः जनसामान्य तक उचित बातों को जनसामान्य ही पहुंचा सकता है इसके लिये आपको भी अधिकतम लोगों से साझा करने की आवश्यकता है।