वास्तु मंडल पूजन मंत्र pdf

वास्तु मंडल चक्र 

 वास्तु मंडल पूजन मंत्र 

घर और यज्ञ के लिये वास्तुमंडल अलग -अलग होता है। यह घर में बनाया जाने वाला ८१ पदों का वास्तुचक्र है। नीचे पूजन के मंत्र दिये गए हैं और क्रम का अंक वास्तुमंडल चक्र में अंकित है।

१. शिखि : ॐ नमः शम्भवाय च मयेभवाय च नमः शङ्कराय च मयस्कराय च नमः शिवाय च शिवतराय च॥ ॐ भूर्भुवः स्वः शिखिन इहागच्छ इह तिष्ठ। ॐ भूर्भुवः स्वः शिखिने नमः॥
२. पर्जन्य : ॐ शन्नो व्वातः पवता ᳪ शन्नस्तपतु सूर्य्यः । शन्नः कनिक्क्रदद्देवः पर्जन्यो ऽअभिवर्षतु ॥ ॐ भूर्भुवः स्वः पर्जन्य इहागच्छ इह तिष्ठ। ॐ भूर्भुवः स्वः पर्जन्याय नमः ॥
३. जयन्त : ॐ मर्म्माणि ते व्वर्म्मणा सोमस्त्वा राजा ऽमृतेननानुवस्ताम् । उरोर्व्वरीयो व्वरुवणस्ते कृणोतु जयन्तं त्वानु देवा मदन्तु ॥ ॐ भूर्भुवः स्वः जयन्त इहागच्छ इह तिष्ठ। ॐ भूर्भुवः स्वः जयन्ताय नमः ॥
४. कुलिशायुध : ॐ सजोषा इन्द्र सगणो मरुद्भिः सोमम्पिब वृत्रहा शूर विद्वान् जहि शत्रूँरपमृधोनुदस्वाथाभयङ्कृणुहि विश्वतो नमः ॥ ॐ भूर्भुवः स्वः कुलीशायुध इहागच्छ इह तिष्ठ। ॐ भूर्भुवः स्वः कुलीशायुधाय नमः ॥
५. सूर्य : ॐ आ कृष्णेन रजसा व्वर्तमानो निवेशयन्न मृतं मर्त्यं च । हिरण्येन सविता रथेना देवो याति भूवनानि पश्यन् ॥ ॐ भूर्भुवः स्वः सूर्य इहागच्छ इह तिष्ठ। ॐ भूर्भुवः स्वः सूर्याय नमः ॥
६. सत्य : ॐ व्व्रतेन दीक्षामाप्नोति दीक्षयाप्नोति दक्षिणां दक्षिणा श्रद्धामाप्नोति श्रद्धयासत्य माप्यते ॥ ॐ भूर्भुवः स्वः सत्य इहागच्छ इह तिष्ठ। ॐ भूर्भुवः स्वः सत्याय नमः ॥
७. भृश : ॐ आ त्वाहार्षमन्तरभूर्ध्रुवस्तिष्ठाव्विचाचलिः । व्विशस्ता सर्व्वा व्वाञ्छन्तु मा त्वद्रामधिभ्रशत् ॥ ॐ भूर्भुवः स्वः भृश इहागच्छ इह तिष्ठ। ॐ भूर्भुवः स्वः भृशाय नमः ॥
८. आकाश : ॐ या वां कशा मधुमत्यश्विना सूनृतावती । तया यम मिमिक्षतम् ॥ ॐ भूर्भुवः स्वः आकाश इहागच्छ इह तिष्ठ। ॐ भूर्भुवः स्वः अकाशाय नमः ॥
९. वायु : ॐ व्वायो ये ते सहस्रिणो रथासस्तेभिरागहि । नियुत्वान्त्सोमपीतये ॥ ॐ भूर्भुवः स्वः वायो इहागच्छ इह तिष्ठ। ॐ भूर्भुवः स्वः वायवे नमः ॥
१०. पूष्ण : ॐ पूषन् तव व्व्रते व्वयं न रिष्येम कदाचन। स्तोतारस्त ऽइह स्मसि ॥ ॐ भूर्भुवः स्वः पूषण इहागच्छ इह तिष्ठ। ॐ भूर्भुवः स्वः पूष्णे नमः ॥
११. वितथ : ॐ तत्सूर्यस्य देवत्वं तन्महित्वं मध्या कर्तोर्वितत ᳪ सं जभार । यदेदयुक्त हरितः सधस्थादाद्रात्री वासस्तनुते सिमस्मै ॥ ॐ भूर्भुवः स्वः वितथ इहागच्छ इह तिष्ठ। ॐ भूर्भुवः स्वः वितथाय नमः ॥
१२. गृहक्षत : ॐ अक्षन्नमीमदन्त ह्यव प्प्रिया ऽअधूषत। अस्तोषत स्वभानवो व्विप्रा नविष्ठया मती योजान्विन्द्र ते हरी ॥ ॐ भूर्भुवः स्वः गृहक्षत इहागच्छ इह तिष्ठ। ॐ भूर्भुवः स्वः गृहक्षताय नमः ॥
१३. यम : ॐ यमाय त्वांगिरस्वते पितृमते स्वाहा। स्वाहा घर्माय स्वाहा धर्मः पित्रे ॥ ॐ भूर्भुवः स्वः यम इहागच्छ इह तिष्ठ। ॐ भूर्भुवः स्वः यमाय नमः ॥
१४. गन्धर्व : ॐ गन्धर्व्वस्तं व्विश्वावसुः परिदधातु व्विश्ंस्यारिष्ट्यै यजमानस्य परिधिरस्यग्निरिड ऽईडित ॥ इन्द्रस्य बाहुरसि दक्षिणो व्विश्वस्यारिष्ट्यै यजमानस्य परिधरस्यग्निरिड ऽईडितः ॥ मित्त्रावरुणौ त्वोत्तरतः परिधतां ध्रुवेण धर्मणा व्विश्वस्यारिष्ट्यै यजमानस्य परिधिरस्यग्निरिड ऽईडितः ॥ ॐ भूर्भुवः स्वः गन्धर्व इहागच्छ इह तिष्ठ। ॐ भूर्भुवः स्वः गन्धर्वाय नमः ॥
१५. भृङ्गराज : ॐ सौरी बलाका शार्गः सृजयः शयाण्डकस्ते मैत्त्राः सरस्वत्यैशारिः पुरुषवाक् श्वाविद्भौमी शार्द्दूलो व्वृकः पृदाकुस्ते मन्यवे सरस्वते शुक्रः पुरुषांक् ॥ ॐ भूर्भुवः स्वः यम इहागच्छ इह तिष्ठ। ॐ भूर्भुवः स्वः यमाय नमः ॥
१६. मृग : ॐ मृगो न भीमः कुचरो गिरिष्ठाः परावत ऽआजगन्था परस्याः ॥ सृक ᳪ स ᳪ शायपविमिन्द्र तिग्मं व्वि शत्त्रून् ताड्ढि वि मृघो नुदस्व ॥ ॐ भूर्भुवः स्वः यम इहागच्छ इह तिष्ठ। ॐ भूर्भुवः स्वः यमाय नमः ॥
१७. पितृ : ॐ उशन्तस्त्वा निधीमह्युशन्तः समिधीमहि ॥ उशन्नुशत ऽआवह पितॄन्हविषे ऽअत्तवे ॥ ॐ भूर्भुवः स्वः यम इहागच्छ इह तिष्ठ। ॐ भूर्भुवः स्वः यमाय नमः ॥
१८. दौवारिक : ॐ द्वे व्विरूपे चरतः स्वर्थे ऽअन्यान्या व्वत्समुप धापयेते । हरिरन्यस्यां भवति स्वधावाञ्छुक्क्रो ऽअन्यस्यां ददृशे सुवर्च्चा ॥ ॐ भूर्भुवः स्वः यम इहागच्छ इह तिष्ठ। ॐ भूर्भुवः स्वः यमाय नमः ॥
१९. सुग्रीव : ॐ नीलग्ग्रीवाः शितिकण्ठा दिव ᳪ रुद्द्राऽउपश्श्रिताः। तेषा ᳪ सहस्रयोजनेऽवधन्न्वानि तन्न्मसि ॥ ॐ भूर्भुवः स्वः यम इहागच्छ इह तिष्ठ। ॐ भूर्भुवः स्वः यमाय नमः ॥
२०. पुष्पदन्त : ॐ नमो गणेब्भ्यो गणपतिब्भ्यश्च वो नमोनमो व्व्रातेब्भ्यो व्व्रातपतिब्भ्यश्च वो नमोनमो गृत्सेब्भ्यो गृत्सपतिब्भ्यश्च वो नमोनमो व्विरूपेब्भ्यो व्विश्वरुपेब्भ्यश्च वो नमः ॥ ॐ भूर्भुवः स्वः यम इहागच्छ इह तिष्ठ। ॐ भूर्भुवः स्वः यमाय नमः ॥
२१. वरुण : ॐ इमम्मे व्वरुणश्श्रुधी हवमद्या च मृडय। त्वामवस्युराचके।। ॥ ॐ भूर्भुवः स्वः यम इहागच्छ इह तिष्ठ। ॐ भूर्भुवः स्वः यमाय नमः ॥
२२. असुर : ॐ यमश्विना नमुचेरासुरादधि सरस्वत्यसुनोदिन्द्रियाय॥ इ॒मं त ᳪ शुवक्रं मधुमन्तमिन्दु ᳪ सोम ᳪ राजानमिह भक्षयामि॥ ॐ भूर्भुवः स्वः असुर इहागच्छ इह तिष्ठ। ॐ भूर्भुवः स्वः असुराय नमः ॥
२३. शेष : ॐ या ऽइषवो यातुधानाना ये वा व्वन॒स्पतीं२ रनु ॥ ये वाऽवटेषु ॥ शेरते तेभ्यः ॥ ॐ भूर्भुवः स्वः यम इहागच्छ इह तिष्ठ। ॐ भूर्भुवः स्वः यमाय नमः ॥
२४. पाप : ॐ एतत्ते रुद्राऽवसन्तेन परो मूजवतो ऽतीहि ॥ अवतत धन्वा पिनाकावसः कृत्तिवासा ऽअहि ᳪ स॒न्नः शिवोऽतीहि ॥ ॐ भूर्भुवः स्वः पाप इहागच्छ इह तिष्ठ। ॐ भूर्भुवः स्वः पापाय नमः ॥
२५. रोग : ॐ द्द्रापेऽअन्धसस्प्पतेदरिद्द्रनीललोहित । आसाम्प्रजानामेषाम्पशूनाम्माभेर्म्मारोङ्मोचनः किञ्चनाममत् ॥ ॐ भूर्भुवः स्वः रोग इहागच्छ इह तिष्ठ। ॐ भूर्भुवः स्वः रोगाय नमः ॥
२६. अहिर्बुध्न्य : ॐ अहिरिव भोगै: पर्येति बाहुं ज्याया हेतिं परिबाधमान: । हस्तघ्नो विश्वा वयुनानि विद्वान् पुमान् पुमा ᳪ सं परि पातु विश्वत: ॥॥ ॐ भूर्भुवः स्वः अहिर्बुध्न्य इहागच्छ इह तिष्ठ। ॐ भूर्भुवः स्वः अहिर्बुध्न्याय नमः ॥
२७. मुख्य : ॐ अवतत्त्य धनुष्ट्व ᳪ सहस्राक्षशतेषुधे। निशीर्य्यशल्ल्यानाम्मुखा शिवोनः सुमना भव ॥ ॐ भूर्भुवः स्वः मुख्य इहागच्छ इह तिष्ठ। ॐ भूर्भुवः स्वः मुख्याय नमः ॥
२८. भल्लाट : ॐ इमारुद्द्रायतवसे कपर्द्दिने क्षयद्वीराय प्प्रभरामहेमतीः । यथाषमसद्द्विपदे चतुष्ष्पदे व्विश्व्म्पुष्टङ्ग्रामेऽअस्म्मिन्ननातुरम् ॥ ॐ भूर्भुवः स्वः भल्लाट इहागच्छ इह तिष्ठ। ॐ भूर्भुवः स्वः भल्लाटाय नमः ॥
२९. सोम : ॐ वय ᳪ सोमव्रते तव मनस्तनूषु बिब्भ्रतः। प्रजावन्तः सचेमहि॥ ॐ भूर्भुवः स्वः सोम इहागच्छ इह तिष्ठ। ॐ भूर्भुवः स्वः सोमाय नमः॥
३०. सर्प : ॐ नमोऽस्तु सर्पेभ्यो ये के च पृथिविमनु । ये ऽअन्तरिक्षे ये दिवि तेभ्यः सर्पेभ्यो नमः॥ ॐ भूर्भुवः स्वः सर्पाः इहागच्छत इह तिष्ठत। ॐ भूर्भुवः स्वः सर्पेभ्यो नमः ॥
३१. अदिति : ॐ अदितिर्द्यौरदितिरन्तरिक्षमदितिर्माता स पिता स पुत्रः। विश्वेदेवा अदितिः पञ्चजना अदितिर्जातमदितिर्जनित्वम् ॥ ॐ भूर्भुवः स्वः अदिते इहागच्छ इह तिष्ठ। ॐ भूर्भुवः स्वः अदितये नमः ॥
३२. दिति : ॐ इड ऽएह्यदित ऽएहि काम्या ऽएत । मयि वः कामधरणं भूयात् ॥ ॐ भूर्भुवः स्वः दण्ड इहागच्छ इह तिष्ठ ॥ ॐ भूर्भुवः स्वः दिते इहागच्छ इह तिष्ठ। ॐ भूर्भुवः स्वः दितये नमः ॥
३३. अप : ॐ आपो हिष्ठा मयोभुवस्तानऽऊर्जे दधातन महेरणाय चक्षसे यो वः शिवतमो रसस्तस्य भाजयतेह नः उशतीरिव मातरः। तस्माऽअरङ्गमामवो यस्य क्षयाय जिन्वथ आपो जनयथा च नः॥ ॐ भूर्भुवः स्वः अद्भ्यः इहागच्छत इह तिष्ठत। ॐ भूर्भुवः स्वः अद्भ्यो नमः ॥
३४. आपवत्स : ॐ आ ते व्वत्सो मनो यमत्परमाञ्चित्सधस्थात्॥ अग्ने त्वां कामया गिरा ॥ ॐ भूर्भुवः स्वः आपवत्स इहागच्छ इह तिष्ठ। ॐ भूर्भुवः स्वः आपवत्साय नमः ॥
३५. अर्यमण : ॐ यदद्य सूर ऽउदितेऽनागा मित्रो ऽअर्यमा । सुवाति सविता भगः ॥ ॐ भूर्भुवः स्वः अर्यमण इहागच्छ इह तिष्ठ। ॐ भूर्भुवः स्वः अर्यम्णे नमः ॥
३६. सावित्र : ॐ हस्त ऽआधाय सवि॒ता बिब्भ्रद्भिः हिरण्मयीम् ॥ अग्नेर्ज्ज्योतिर्न्निचाय्य पृथिव्या ऽअद्ध्याभरदानुष्टुभेनच्छन्दसाङ्गिरस्वत्॥ ॥ ॐ भूर्भुवः स्वः सवित्रे इहागच्छ इह तिष्ठ। ॐ भूर्भुवः स्वः सावित्राय नमः ॥
३७. सवितृ : ॐ व्विश्वानि देव सवितर्द्दुरितानि परासुव । यद्भद्द्रं तन्न ऽआ सुव ॥ ॐ भूर्भुवः स्वः सविता इहागच्छ इह तिष्ठ। ॐ भूर्भुवः स्वः सवित्रे नमः ॥
३८. विवस्वान : ॐ व्विवस्वन्नादित्यैष ते सोमपीथस्तस्मिन्मत्स्व ॥ श्र्श्रदस्मै नरो व्वचसे दधातन यदाशीर्द्दा दम्पती व्वाममश्नुतः ॥ पुमान्पुत्त्रो जायते विन्दते व्वस्वधा विश्वाहारप ऽएधते गृहे ॥ ॐ भूर्भुवः स्वः विवस्वान इहागच्छ इह तिष्ठ। ॐ भूर्भुवः स्वः विवस्वते नमः ॥
३९: विबुधाधिप : ॐ स बोधि सूरिर्म्मघवा व्वसुपते व्वसुदावन् । युयोध्यस्मद् द्वेषा ᳪ सि व्विश्वकर्म्मणे स्वाहा ॥ ॐ भूर्भुवः स्वः विबुधाधिप इहागच्छ इह तिष्ठ। ॐ भूर्भुवः स्वः विबुधाधिपाय नमः ॥
४०. जय : ॐ अषाढं य्युत्सु पृतनासु पप्प्रि ᳪ स्वर्षामप्सां व्वृजनस्य गोपाम् ॥ भरेषुजा ᳪ सुक्षितिः सुश्र्श्रवसं जयन्तं त्वामनु मदेन सोम ॥ ॐ भूर्भुवः स्वः जय इहागच्छ इह तिष्ठ। ॐ भूर्भुवः स्वः जयाय नमः ॥
४१. मित्र : ॐ मित्त्रो न एहि सुमित्त्रध ऽइन्द्रस्योरुमाविश दक्षिणमुशन्नुशन्त ᳪ स्योनः स्योनम्॥ स्वानब्भ्राजाङ्घरिब्बर्भारे हस्त सुहस्त कृशानवेतेवः सोमवक्रयणात्तान्रक्षद्ध्वं मा वो दभन् ॥ ॐ भूर्भुवः स्वः मित्र इहागच्छ इह तिष्ठ। ॐ भूर्भुवः स्वः मित्राय नमः ॥
४२. राजयक्ष्मा : ॐ नाशयित्त्री बलासस्यार्शस ऽउपचितामसि ॥ अथो शतस्य यक्ष्माणां पाकारोरसि नाशनी ॥ ॐ भूर्भुवः स्वः राजयक्ष्मा इहागच्छ इह तिष्ठ। ॐ भूर्भुवः स्वः राजयक्ष्मणे नमः ॥
४३. रुद्र : ॐ अव रुद्रमदीमह्यव द्देवं त्र्यम्बकम् ॥ यथा नो व्वस्यसस्करद्यथा नः श्रेयसस्करद्यथा नो व्यवसाययात् ॥ ॐ भूर्भुवः स्वः रुद्र इहागच्छ इह तिष्ठ। ॐ भूर्भुवः स्वः रुद्राय नमः ॥
४४. पृथ्वीधर : ॐ स्योना पृथिवि नो भवानृक्षरानिवेशनी यच्छा नः शर्मसप्रथाः॥ ॥ ॐ भूर्भुवः स्वः पृथ्वीधर इहागच्छ इह तिष्ठ। ॐ भूर्भुवः स्वः पृथ्वीधराय नमः ॥
४५. ब्रह्मा : ॐ ब्रह्म यज्ञानं प्रथमं पुरस्ताद्विसीमतः सुरुचो वेनऽआवः। सबुध्न्या उपमाऽअस्य विष्ठाः सतश्च योनिमसश्च विवः॥ ॐ भूर्भुवः स्वः ब्रह्मण इहागच्छ इह तिष्ठ। ॐ भूर्भुवः स्वः ब्रह्मणे नमः ॥
प्राणप्रतिष्ठा का मंत्र  – ॐ मनोजूतिर्जुषतामाज्यस्य बृहस्पतिर्यज्ञमिमं तन्नोत्वरिष्टं यज्ञ ᳪ समिमं दधातु॥ विश्वेदेवा स इह मादयंतामों३ प्रतिष्ठ॥ ॐ भूर्भुवः स्वः शिख्यादि वास्तु मण्डल देवताः इहागच्छत इह तिष्ठत॥
एकतंत्र पूजा मंत्र : ॐ भूर्भुवः स्वः शिख्यादि वास्तु मण्डल देवताभ्यो नमः॥

क्या आप वास्तुमंडल पूजन मंत्र pdf डाउनलोड करना चाहते हैं ?

वास्तुमंडल पूजन मंत्र pdf डाउनलोड करने के लिये यहां क्लिक करें। 

Leave a Reply

Your email address will not be published. Required fields are marked *