उमा महेश्वर की संयुक्त पूजा का विशेष महत्व होता है। भगवान शिव का एक स्वरूप ऐसा भी है जिसमें पार्वती और शिव दोनों संयुक्त हैं और उन्हें अर्द्धनारीश्वर कहा जाता है। इस प्रकार उमामहेश्वर का जो सम्मिलन है वह अन्यत्र नहीं होता और इस कारण उमा महेश्वर की पूजा विशेष महत्वपूर्ण होती है। शिवरात्रि के अवसर पर तो उमामहेश्वर पूजा का महत्व और भी बढ़ जाता है। यहां शिवरहस्योक्त ऋषिगौतमप्रोक्त उमामहेश्वर पूजा विधि और मंत्र (uma maheshwara pooja) दिया गया है इसके साथ ही उमा महेश्वर स्तोत्र भी दिया गया है।
उमा महेश्वर पूजा विधि और मंत्र – uma maheshwara pooja
उमामहेश्वर की पूजा में यदि नाममंत्र का विचार करें तो “ॐ उमामहेश्वराभ्यां नमः” मंत्र प्राप्त होता है। हम सर्वप्रथम शिवरहस्योक्त ऋषिगौतमप्रोक्त उमामहेश्वर पूजा विधि को देखेंगे तत्पश्चात उक्त विधि के अनुसार मंत्र प्रयोग का अवलोकन करेंगे।
ऋषिगौतमप्रोक्तं उमामहेश्वर बाह्याप्युपचार पूजा वर्णनम् अर्थात उमामहेश्वर पूजा विधान
॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः २२। २०८-२४८॥
गौतम उवाच
ततः पुष्पाणि सङ्गृह्य शिवमावायेच्छिवाम् । महादेव कृपासिन्धो विश्ववन्द्यपदाम्बुज ॥२०८॥
आवाहयामि देवेश प्रसीद परमेश्वर । लक्ष्म्यादिदेववनितापरिषेवितपादुके ॥२०९॥
आवाहयामि देवेशि प्रसीद परमेश्वरि । गृहाण सोम विश्वात्मन्नासनं रत्ननिर्मितम् ॥२१०॥
अनन्तासन विश्वेश करुणासागर प्रभो । उमे सोमसमाश्लिष्टे सोमार्धकृतशेखरे ॥२११॥
नानारत्नसमाकीर्णमासनं प्रतिगृह्यताम् । अर्घ्यं गृहाणदेवेश सपुष्पं गन्धसंयुतम् ॥२१२॥
शिवानन्तगुणग्राम सर्वाभीष्टप्रदायक । गृहाणार्घ्यं शिवे नित्यं सर्वावयवशोभिनि ॥२१३॥
शिवप्रिये शिवाकारे नित्यं भक्तवरप्रदे । पाद्यं गृहाण गौरीश हेमपात्रस्थितं नवम् ॥२१४॥
गृहाण देवि पाद्यं त्वं वेदवेदान्तसंस्तुते । गृहाणाचमनं शम्भो कल्पितं निर्मल प्रभो ॥२१५॥
निर्मले निर्मलाकारे गृहाणाचमनीयकम् । मधुपर्कं गृहाणेश सच्चिदानन्दविग्रह ॥२१६॥
मधुपर्कप्रदानेन प्रीतो भव महेश्वर । मधुपर्कमिदं देवि स्वीकुरु प्रियशङ्करे ॥२१७॥
मधुपर्कप्रदानेन प्रीता भव सुशोभने । शिव शम्भोऽमृतस्नानं स्वीकुरुष्व कृपानिधे ॥२१८॥
सर्वतीर्थमय स्वामिन् सर्वपावनपावन । शिवे पञ्चामृतस्नानं स्वीकृरुष्व शिवप्रिये ॥२१९॥
सृष्टतीर्थोत्तमे शुद्धे तीर्थराजनिषेविते । शम्भो शुद्धोदकस्नानं स्वीकुरुष्व सुरोत्तम ॥२२०॥
प्रसीद कृपया भक्तं पाहि मां पार्वतीपते । शिवे शुद्धोदकस्नानं गृह्यतां मीनलोचने ॥२२१॥
प्रसीद देवि दीनं त्वं पाहि मां शरणागतम् । सोत्तरींयं सङ्ग्रहाण दुकूलमिदमुत्तमम् ॥२२२॥
पाहि पाहि कृपासिन्धो करुणावरुणालय । सोत्तरीयं गृहाणेदं दुकूलं शङ्करप्रिये ॥२२३॥
प्रसीद पाहि मां दीनमनन्यशरणं शिवे । उपवीतं गृहाणेश शम्भो चन्द्रार्धशेखर ॥ २२४॥
गृह्यतामुपवीतं यन्नवतन्तुविनिर्मितम् । देवि देवाधिदेवेशि यथाशक्त्युपकल्पितम् ॥२२५॥
गृहाण चन्दनं देव नानागन्धोपकल्पितम् । प्रसीद पार्वतीनाथ शरणागतवत्सल ॥२२६॥
गृहाण चन्दनं देवि कस्तूरीकुङ्कुमाञ्चितम् । विश्वं विश्वात्मिके पाहि विश्वनाथप्रिये सदा ॥२२७॥
गृहाणाभरणानीश निरीश निगमाश्रय । विश्वाभरण विश्वेश रत्नाभरणभूषित ॥२२८॥
गृहाणाभरणान्यम्ब सर्वाभरणभूषिते । सर्वप्रिये जगद्वन्द्ये जगदानन्ददे शिवे ॥२२९॥
गृहाण बिल्वपत्राणि पुष्पाणि च महेश्वर । सुगन्धीनि नवानीश सबिल्वकुसुमप्रिय ॥२३०॥
गृहाण बिल्वपत्राणि नूतनानि शिवप्रिये । नागपुन्नागमन्दारमालिकासमलङ्कृते ॥२३१॥
दशाङ्गं गुग्गुलुं धूपं सगोघृतमनुत्तमम् । गृहाण पार्वतीनाथ घ्राणतर्पणमादरात् ॥२३२॥
दशाङ्गं गुग्गुलुं धूपं सगोघृतमनुत्तमम् । गृहाण भक्तवरदे लक्ष्मीवाण्यादिसेविते ॥२३३॥
साज्यं त्रिवर्तिविस्फूर्जद्दीपं शिव शिवापते । गृहाणानन्तसूर्याग्निचन्द्रप्रभ नमोऽस्तु ते ॥२३४॥
साज्यं त्रिवर्तिविस्पूर्जद्दीपमीशानवल्लभे । गृहाण चन्द्रसूर्याग्निमण्डलाधिकसुप्रभे ॥२३५॥
शम्भो गोघृतसंयुक्तं परमान्नं मनोहरम् । सशर्करं गृहाणेश नित्यतृप्त महेश्वर ॥२३६॥
शिवे गोवृतसंयुक्तं परमान्नं मनोहरम् । सशर्करं गृहाणाम्ब परमान्नप्रदायिनि ॥२३७॥
शम्भो गृहाण गन्धाढ्यमिदमाचमनीयकम् । निवेदनान्ते देवेश कल्पितं शुद्धविग्रह ॥२३८॥
शिवे गृहाण गन्धाढ्यमिदमाचमनीयकम् । शुद्धे शुद्धिप्रदे देवि शिववामाङ्गरूपिणि ॥२३९॥
नीराजनं गृहाणेश बहुदीपविरजितम् । स्वप्रकाश प्रकाशात्मन्प्रकाशितदिगन्तर ॥२४०॥
नीराजनं गृहाणाम्ब सूर्यचन्द्राग्निलोचने । प्रभापूरित सर्वाङ्गे मङ्गले मङ्गलास्पदे ॥२४१॥
शम्भो गृहाण ताम्बूलमेलाकर्पूरसंयुतम् । प्रसीद भगवन् शम्भो सर्वज्ञामितविक्रम ॥२४२॥
शिवे गृहाण ताम्बूलमेलाकर्पूरसंयुतम् । प्रसीद सस्मिते देवि शिवालिङ्गितविग्रहे ॥२४३॥
गृहाण परमेशान सरत्ने छत्रचामरे । दर्पणं व्यजनं चेश सर्वदुःखविनाशक ॥२४४॥
गृहाणेमे सुराराध्ये सरत्ने छत्रचामरे । दर्पणं व्यजनं चाद्ये विद्याधारे नमोऽस्तु ते ॥२४५॥
प्रदक्षिणनमस्कारान्गृहाण परमेश्वर । नर्तनं च महादेव नाट्यप्रिय नमोऽस्तु ते ॥२४६॥
प्रदक्षिणनमस्कारान्गृहाण परमेश्वरि । नर्तनं च महादेवि शिवनाट्यम्प्रिये शिवे ॥२४७॥
एवं प्रयत्नतः कृत्वा शिवयोःपूजनं शिवम् । शिवं शिवां च यत्नेन पुनः सम्पूजयेत्पुनः ॥२४८॥
॥ इति शिवरहस्यान्तर्गते ऋषिगौतमप्रोक्तं उमामहेश्वरबाह्याप्युपचारपूजावर्णनं सम्पूर्णम् ॥
उमा महेश्वर मंत्र
सभी प्रकार की पूजा सामग्रियां व्यवस्थित कर लें। पवित्रीकरणादि करने के पश्चात् संकल्प की आवश्यकता होती है। संकल्प हेतु प्रतिदिन के पञ्चाङ्गानुसार तिथि को जानना आवश्यक होता है यदि आप प्रतिदिन का पंचांग देखना चाहें तो यहां क्लिक करके देख सकते हैं : आज का पंचांग और शुभ मुहूर्त
यहां सरल संकल्प मंत्र दिया जा रहा विशेष संकल्प मंत्र हेतु अन्य आलेखों का अवलोकन कर सकते हैं। प्रतिदिन का संकल्प भी यहां क्लिक करके जान सकते हैं ~ आज का संकल्प मंत्र
सरल संकल्प मंत्र : ओं अद्यैतस्य ब्रह्मणोऽह्नि द्वितीयेपरार्धे श्रीश्वेतवाराहकल्पे वैवस्वत मन्वन्तरे अष्टाविंशति तमे कलियुगे कलिप्रथमचरणे महांमागल्यप्रद मासोतमे मासे ………. मासे ……… पक्षे ……… तिथौ ……… वासरे ……… गोत्रोत्पन्नः ……… मम आत्मन श्रुतिस्मृतिपुराणोक्त फलप्राप्यर्थं मम सकुटुम्बस्य दीर्घायु शरीरारोग्य कामनया धन-धान्य-बल-पुष्टि-कीर्ति-यश लाभार्थं, सकल मनोरथ सिध्यर्थं, श्री शिवप्रीत्यर्थं यथा शक्त्या यथा मिलितोपचार द्रव्यैः उमामहेश्वरपूजनमहं करिष्ये ॥
ध्यान
ध्यायेन्नित्यं महेशं रजतगिरिनिभं चारु चन्द्रावतंसम् ।
रत्नाकल्पोज्ज्वलांगं परशुमृगवराभीति हस्तं प्रसन्नम् ॥
पद्मासीनं समन्तात् स्तुतममरगणैर्व्याघ्रकृत्तिं वसानम् ।
विश्वाद्यं विश्ववन्द्यं निखिल भयहरं पंच वक्त्रं त्रिनेत्रम् ॥
॥ श्री साम्बसदाशिवाय नमः । श्री सदाशिवं ध्यायामि ॥
उमा महेश्वर ध्यान मंत्र
मुक्तामालापरीताङ्गं दुकूलपरिवेष्टितम् । पञ्चाननमुमाकान्तमनन्तेन्दुरविप्रभम् ॥
चन्द्रार्धशेखरं नित्यं जटामकुटमण्डितम् । त्रिपुण्ड्ररेखाविलसद्भालभागमनामयम् ॥
भस्मोद्धूलितसर्वाङ्गं रुद्राक्षाभरणान्वितम् । मन्दस्मितमुखाम्भोजमाधारं जगतां प्रभुम् ॥
वेदैरनन्तैरनिशं स्तूयमानमनेकधा । वेदात्मकं वेदवेद्यं विष्णुब्रह्मादिवन्दितम् ॥
विष्णुनेत्रार्चितं भक्तकल्पद्रुममुमापतिम् । अप्रतिद्वन्द्वमद्वन्द्वं सर्ववृन्दारकार्चितम् ॥
सर्वोत्तममनाद्यन्तं सर्वदेवनिषेवितम् । ऋतं सत्यं परं ब्रह्म पुरुषं कृष्णपिङ्गलम् ॥
ऊर्ध्वरेतं विरूपाक्षं विश्वरूपं चिदात्मकम् । निष्कलं निर्गुणं शान्तं निरवद्यं निरञ्जनम् ॥
अप्रमेयं जगज्जन्मस्थितिसंहारकारणम् । विश्वबाहुं विश्वपादं विश्वाक्षं विश्वशम्भुवम् ॥
विश्वं नारायणाराध्यमक्षरं परमं पदम् । विश्वतः परमं नित्यं विश्वस्येशमनामयम् ॥
लक्ष्मीसेवितपादाब्जां शचीसेवितपादुकाम् । सरस्वत्यादिभिर्नित्यं स्तूयमानपदाम्बुजाम् ॥
अधरोष्ठाधरीभूतपक्वबिम्बफलामिमाम् । मुखकान्तिकलोद्धूतपूर्णचन्द्रां शिवात्मिकाम् ॥
तिरस्कृतालिमालां तामलकावलिभिः सदा । पीनवक्षोजनिर्धूतचक्रवाकवराङ्गनाम् ॥
नित्यां तिरस्कृताम्भोजनयनां विश्वमातरम् । सीमन्तधिक्कृताशेषकामभल्लामहर्निशम् ॥
भ्रुकुटीनिर्जितानङ्गचापां भक्तजनेष्टदाम् । बाहुनालप्रभोद्धतहेमनालां विलासिनीम् ॥
रोमराजितिरोभूतसम्भ्रमभ्रमरावलिम् । नाभिरन्ध्रतिरोभूतघनावर्तोमिवर्तुलाम् ॥
उत्तमोरुतिरोभूतरम्भास्तम्भां शुभावहाम् । पादयुग्मप्रभापूरनिर्जितारुणपङ्कजाम् ॥
ब्रह्मेन्द्रोपेन्द्रजननीं महेशार्धाङ्गभागिनीम् । महेशाश्लिष्टवामाङ्गां वरदाभयदां सदा ॥
प्रसन्नवदनाम्भोजां स्मितपूर्वाभिभाषिणीम् । सर्वशृङ्गारवेषाढ्यां नानाभरणभूषिताम् ॥
देवैर्वेदैश्च वेदान्तैः स्तूयमानात्मवैभवाम् ॥
आवाहन
महादेव कृपासिन्धो विश्ववन्द्यपदाम्बुज। आवाहयामि देवेश प्रसीद परमेश्वर ॥
लक्ष्म्यादिदेववनितापरिषेवितपादुके। आवाहयामि देवेशि प्रसीद परमेश्वरि ॥
॥ इदमक्षतं उमा महेश्वरौ इहागच्छतं इह तिष्ठतं॥
आसन
गृहाण सोम विश्वात्मन्नासनं रत्ननिर्मितम्। अनन्तासन विश्वेश करुणासागर प्रभो ॥
उमे सोमसमाश्लिष्टे सोमार्धकृतशेखरे। नानारत्नसमाकीर्णमासनं प्रतिगृह्यताम् ॥
॥ इदमासनं ॐ उमामहेश्वराभ्यां नमः ॥
अर्घ्य
अर्घ्यं गृहाणदेवेश सपुष्पं गन्धसंयुतम्। शिवानन्तगुणग्राम सर्वाभीष्टप्रदायक ॥
गृहाणार्घ्यं शिवे नित्यं सर्वावयवशोभिनि। शिवप्रिये शिवाकारे नित्यं भक्तवरप्रदे ॥
॥ हस्तयोः अर्घ्यं ॐ उमामहेश्वराभ्यां नमः ॥
पाद्य
पाद्यं गृहाण गौरीश हेमपात्रस्थितं नवम्। गृहाण देवि पाद्यं त्वं वेदवेदान्तसंस्तुते ॥
॥ पादयोः पाद्यं ॐ उमामहेश्वराभ्यां नमः ॥
आचमन
गृहाणाचमनं शम्भो कल्पितं निर्मल प्रभो। निर्मले निर्मलाकारे गृहाणाचमनीयकम् ॥
॥ मुखे आचमनीयं ॐ उमामहेश्वराभ्यां नमः॥
मधुपर्क
मधुपर्कं गृहाणेश सच्चिदानन्दविग्रह। मधुपर्कप्रदानेन प्रीतो भव महेश्वर ॥
मधुपर्कमिदं देवि स्वीकुरु प्रियशङ्करे। मधुपर्कप्रदानेन प्रीता भव सुशोभने ॥
॥ इदं मधुपर्कं ॐ उमामहेश्वराभ्यां नमः ॥
स्नान
शिव शम्भोऽमृतस्नानं स्वीकुरुष्व कृपानिधे। सर्वतीर्थमयस्वामिन् सर्वपावनपावन ॥
॥ इदं स्नानीयं जलं ॐ उमामहेश्वराभ्यां नमः ॥
पञ्चामृत स्नान
शिवे पञ्चामृतस्नानं स्वीकृरुष्व शिवप्रिये। सृष्टतीर्थोत्तमे शुद्धे तीर्थराजनिषेविते ॥
॥ इदं पंचामृतस्नानं ॐ उमामहेश्वराभ्यां नमः ॥
शुद्धोदक स्नान
शम्भो शुद्धोदकस्नानं स्वीकुरुष्व सुरोत्तम। प्रसीद कृपया भक्तं पाहि मां पार्वतीपते ॥
शिवे शुद्धोदकस्नानं गृह्यतां मीनलोचने। प्रसीद देवि दीनं त्वं पाहि मां शरणागतम् ॥
॥ इदं शुद्धोदक स्नानं ॐ उमामहेश्वराभ्यां नमः ॥
वस्त्र
सोत्तरींयं सङ्गृहाण दुकूलमिदमुत्तमम्। पाहि पाहि कृपासिन्धो करुणावरुणालय ॥
सोत्तरीयं गृहाणेदं दुकूलं शङ्करप्रिये। प्रसीद पाहि मां दीनमनन्यशरणं शिवे ॥
॥ इमे वस्त्रोपवस्त्रे ॐ उमामहेश्वराभ्यां नमः ॥ आचमनीयं ………
यज्ञोपवीत
उपवीतं गृहाणेश शम्भो चन्द्रार्धशेखर। गृह्यतामुपवीतं यन्नवतन्तुविनिर्मितम्॥
॥ इमे यज्ञोपवीते ॐ उमामहेश्वराभ्यां नमः ॥ आचमनीयं ………
गन्ध
देवि देवाधिदेवेशि यथाशक्त्युपकल्पितम्। गृहाण चन्दनं देव नानागन्धोपकल्पितम् ॥
प्रसीद पार्वतीनाथ शरणागतवत्सल। गृहाण चन्दनं देवि कस्तूरीकुङ्कुमाञ्चितम् ॥
॥ इदं गन्धं ॐ उमामहेश्वराभ्यां नमः ॥
आभरण-आभूषण-शृंगार सामग्री
विश्वं विश्वात्मिके पाहि विश्वनाथप्रिये सदा। गृहाणाभरणानीश निरीश निगमाश्रय ॥
विश्वाभरण विश्वेश रत्नाभरणभूषित। गृहाणाभरणान्यम्ब सर्वाभरणभूषिते ॥
॥ इदं आभूषणं ॐ उमामहेश्वराभ्यां नमः ॥
पुष्प
सर्वप्रिये जगद्वन्द्ये जगदानन्ददे शिवे। गृहाण बिल्वपत्राणि पुष्पाणि च महेश्वर ॥
॥ इदं पुष्पं ॐ उमामहेश्वराभ्यां नमः ॥
बिल्वपत्र
सुगन्धीनि नवानीश सबिल्वकुसुमप्रिय। गृहाण बिल्वपत्राणि नूतनानि शिवप्रिये॥
॥ एतानि बिल्वपत्राणि ॐ उमामहेश्वराभ्यां नमः ॥
धूप
नागपुन्नागमन्दारमालिकासमलङ्कृते। दशाङ्गं गुग्गुलुं धूपं सगोघृतमनुत्तमम् ॥
गृहाण पार्वतीनाथ घ्राणतर्पणमादरात्। दशाङ्गं गुग्गुलुं धूपं सगोघृतमनुत्तमम् ॥
॥ एष धूपः ॐ उमामहेश्वराभ्यां नमः ॥
दीप
गृहाण भक्तवरदे लक्ष्मीवाण्यादिसेविते। साज्यं त्रिवर्तिविस्फूर्जद्दीपं शिव शिवापते ॥
गृहाणानन्तसूर्याग्निचन्द्रप्रभ नमोऽस्तु ते। साज्यं त्रिवर्तिविस्पूर्जद्दीपमीशानवल्लभे ॥
॥ एष दीपः ॐ उमामहेश्वराभ्यां नमः ॥
नैवेद्य
गृहाण चन्द्रसूर्याग्निमण्डलाधिकसुप्रभे। शम्भो गोघृतसंयुक्तं परमान्नं मनोहरम् ॥
सशर्करं गृहाणेश नित्यतृप्त महेश्वर। शिवे गोवृतसंयुक्तं परमान्नं मनोहरम् ॥
॥ एतानि नानाविध नैवेद्यानि ॐ उमामहेश्वराभ्यां नमः ॥
आचमन
सशर्करं गृहाणाम्ब परमान्नप्रदायिनि। शम्भो गृहाण गन्धाढ्यमिदमाचमनीयकम् ॥
निवेदनान्ते देवेश कल्पितं शुद्धविग्रह। शिवे गृहाण गन्धाढ्यमिदमाचमनीयकम् ॥
शुद्धे शुद्धिप्रदे देवि शिववामाङ्गरूपिणि ॥ इदं आचमनीयं ॐ उमामहेश्वराभ्यां नमः ॥
नीराजन
नीराजनं गृहाणेश बहुदीपविरजितम् । स्वप्रकाश प्रकाशात्मन्प्रकाशितदिगन्तर ॥
नीराजनं गृहाणाम्ब सूर्यचन्द्राग्निलोचने । प्रभापूरित सर्वाङ्गे मङ्गले मङ्गलास्पदे ॥
॥ इदं नीराजनं ॐ उमामहेश्वराभ्यां नमः ॥
ताम्बूल
शम्भो गृहाण ताम्बूलमेलाकर्पूरसंयुतम् । प्रसीद भगवन् शम्भो सर्वज्ञामितविक्रम ॥
शिवे गृहाण ताम्बूलमेलाकर्पूरसंयुतम् । प्रसीद सस्मिते देवि शिवालिङ्गितविग्रहे ॥
॥ इदं मुखवासार्थे ताम्बूलं सपूगीफलं ॐ उमामहेश्वराभ्यां नमः ॥
छत्र-चामर–दर्पण–व्यजन
गृहाण परमेशान सरत्ने छत्रचामरे । दर्पणं व्यजनं चेश सर्वदुःखविनाशक ॥
गृहाणेमे सुराराध्ये सरत्ने छत्रचामरे । दर्पणं व्यजनं चाद्ये विद्याधारे नमोऽस्तु ते ॥
॥ इदं छत्रं, इदं चामरं, इदं दर्पणं, इदं व्यजनं ॐ उमामहेश्वराभ्यां नमः ॥
प्रदक्षिणा-नमस्कार-नर्तन-प्रार्थना
प्रदक्षिणनमस्कारान्गृहाण परमेश्वर । नर्तनं च महादेव नाट्यप्रिय नमोऽस्तु ते ॥
प्रदक्षिणनमस्कारान्गृहाण परमेश्वरि । नर्तनं च महादेवि शिवनाट्यम्प्रिये शिवे ॥
श्रीशङ्कराचार्यकृतम् उमामहेश्वरस्तोत्रं
नमः शिवाभ्यां नवयौवनाभ्याम् परस्पराश्लिष्टवपुर्धराभ्याम् ।
नगेन्द्रकन्यावृषकेतनाभ्याम् नमो नमः शङ्करपार्वतीभ्याम् ॥१॥
नमः शिवाभ्यां सरसोत्सवाभ्याम् नमस्कृताभीष्टवरप्रदाभ्याम् ।
नारायणेनार्चितपादुकाभ्यां नमो नमः शङ्करपार्वतीभ्याम् ॥२॥
नमः शिवाभ्यां वृषवाहनाभ्याम् विरिञ्चिविष्ण्विन्द्रसुपूजिताभ्याम् ।
विभूतिपाटीरविलेपनाभ्याम् नमो नमः शङ्करपार्वतीभ्याम् ॥३॥
नमः शिवाभ्यां जगदीश्वराभ्याम् जगत्पतिभ्यां जयविग्रहाभ्याम् ।
जम्भारिमुख्यैरभिवन्दिताभ्याम् नमो नमः शङ्करपार्वतीभ्याम् ॥४॥
नमः शिवाभ्यां परमौषधाभ्याम् पञ्चाक्षरी पञ्जररञ्जिताभ्याम् ।
प्रपञ्चसृष्टिस्थिति संहृताभ्याम् नमो नमः शङ्करपार्वतीभ्याम् ॥५॥
नमः शिवाभ्यामतिसुन्दराभ्याम् अत्यन्तमासक्तहृदम्बुजाभ्याम् ।
अशेषलोकैकहितङ्कराभ्याम् नमो नमः शङ्करपार्वतीभ्याम् ॥६॥
नमः शिवाभ्यां कलिनाशनाभ्याम् कङ्कालकल्याणवपुर्धराभ्याम् ।
कैलासशैलस्थितदेवताभ्याम् नमो नमः शङ्करपार्वतीभ्याम् ॥७॥
नमः शिवाभ्यामशुभापहाभ्याम् अशेषलोकैकविशेषिताभ्याम् ।
अकुण्ठिताभ्याम् स्मृतिसम्भृताभ्याम् नमो नमः शङ्करपार्वतीभ्याम् ॥८॥
नमः शिवाभ्यां रथवाहनाभ्याम् रवीन्दुवैश्वानरलोचनाभ्याम् ।
राकाशशाङ्काभमुखाम्बुजाभ्याम् नमो नमः शङ्करपार्वतीभ्याम् ॥९॥
नमः शिवाभ्यां जटिलन्धरभ्याम् जरामृतिभ्यां च विवर्जिताभ्याम् ।
जनार्दनाब्जोद्भवपूजिताभ्याम् नमो नमः शङ्करपार्वतीभ्याम् ॥१०॥
नमः शिवाभ्यां विषमेक्षणाभ्याम् बिल्वच्छदामल्लिकदामभृद्भ्याम् ।
शोभावती शान्तवतीश्वराभ्याम् नमो नमः शङ्करपार्वतीभ्याम् ॥११॥
नमः शिवाभ्यां पशुपालकाभ्याम् जगत्रयीरक्षण बद्धहृद्भ्याम् ।
समस्त देवासुरपूजिताभ्याम् नमो नमः शङ्करपार्वतीभ्याम् ॥१२॥
स्तोत्रं त्रिसन्ध्यं शिवपार्वतीभ्याम् भक्त्या पठेद्द्वादशकं नरो यः ।
स सर्वसौभाग्य फलानि भुङ्क्ते शतायुरान्ते शिवलोकमेति ॥१३॥
॥ इति श्रीशङ्कराचार्यकृतम् उमामहेश्वरस्तोत्रं सम्पूर्णम् ॥
उमामहेश्वराष्टक स्तोत्र
पितामहशिरच्छेदप्रवीणकरपल्लव ।
नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं महेश्वर ॥१॥
निशुम्भशुम्भप्रमुखदैत्यशिक्षणदक्षिणे ।
नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं महेश्वरि ॥२॥
शैलराजस्य जामातः शशिरेखावतंसक ।
नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं महेश्वर! ॥३॥
शैलराजात्मजे! मातः शातकुम्भनिभप्रभे!
नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं महेश्वरि ॥४॥
भूतनाथपुराराते! भुजङ्गकृतभूषण!
नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं महेश्वर! ॥५॥
पादप्रणतभक्तानां पारिजातगुणाधिके ।
नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं महेश्वरि ॥६॥
हालास्येश दयामूर्त्ते! हालाहललसद्गल ।
नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं महेश्वर! ॥७॥
नितम्बिनि महेशस्य कदम्बवननायिके! ।
नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं महेश्वरि ॥८॥
॥इति श्रीहालास्यमाहात्म्ये सङ्घिलकृत उमामहेश्वराष्टकं सम्पूर्णम् ।
भगवान शिव की आरती – जय गंगाधर जय हर जय गिरिजाधीशा
ॐ जय गंगाधर जय हर जय गिरिजाधीशा ।
त्वं मां पालय नित्यं कृपया जगदीशा ॥
हर हर हर महादेव ॥१॥
कैलासे गिरिशिखरे कल्पद्रुमविपिने । गुञ्जति मधुकरपुञ्जे कुञ्जवने गहने ॥
कोकिलकूजित खेलत हंसावन ललिता । रचयति कलाकलापं नृत्यति मुदसहिता ॥
हर हर हर महादेव ॥२॥
तस्मिल्ललितसुदेशे शाला मणिरचिता । तन्मध्ये हरनिकटे गौरी मुदसहिता ॥
क्रीडा रचयति भूषारञ्जित निजमीशम् । इन्द्रादिक सुर सेवत नामयते शीशम् ॥
हर हर हर महादेव ॥३॥
बिबुधबधू बहु नृत्यत हृदये मुदसहिता । किन्नर गायन कुरुते सप्त स्वर सहिता ॥
धिनकत थै थै धिनकत मृदङ् वादयते । क्वण क्वण ललिता वेणुं मधुरं नाटयते ॥
हर हर हर महादेव ॥४॥
रुण रुण चरणे रचयति नूपुरमुज्ज्चलिता । चक्रावर्ते भ्रमयति कुरुते तां धिक ताम् ॥
तां तां लुप चुप तां तां डमरू वादयते । अंगुष्ठांगुलिनादं लासकतां कुरुते ॥
हर हर हर महादेव ॥५॥
कर्पूरद्युतिगौरं पञ्चाननसहितम् । त्रिनयनशशिधरमौलिं विषधरकण्ठयुतम् ॥
सुन्दरजटाकलापं पावकयुतभालम् । डमरुत्रिशूलपिनाकं करधृतनृकपालम् ॥
हर हर हर महादेव ॥६॥
मुण्डै रचयति माला पन्नगमुपवीतम् । वामविभागे गिरिजारूपं अतिललितम् ॥
सुन्दरसकलशरीरे कृतभस्माभरणम् । इति वृषभध्वजरूपं तापत्रयहरणम् ॥
हर हर हर महादेव ॥७॥
शङ्खनिनादं कृत्वा झल्लरि नादयते । नीराजयते ब्रह्मा वेदकऋचां पठते ॥
अतिमृदुचरणसरोजं हृत्कमले धृत्वा । अवलोकयति महेशं ईशं अभिनत्वा ॥
हर हर हर महादेव ॥८॥
ध्यानं आरति समये हृदये अति कृत्वा । रामस्त्रिजटानाथं ईशं अभिनत्वा ॥
संगतिमेवं प्रतिदिन पठनं यः कुरुते । शिवसायुज्यं गच्छति भक्त्या यः शृणुते ॥
हर हर हर महादेव ॥९॥
विनम्र आग्रह : त्रुटियों को कदापि नहीं नकारा जा सकता है अतः किसी भी प्रकार की त्रुटि यदि दृष्टिगत हो तो कृपया सूचित करने की कृपा करें : info@karmkandvidhi.in
मंत्र प्रयोग (कर्मकांड कैसे सीखें) में शास्त्रोक्त प्रमाणों के साथ प्रामाणिक चर्चा की जाती है एवं कई महत्वपूर्ण विषयों की चर्चा पूर्व भी की जा चुकी है। तथापि सनातनद्रोही उचित तथ्य को जनसामान्य तक पहुंचने में अवरोध उत्पन्न करते हैं। एक बड़ा वैश्विक समूह है जो सनातन विरोध की बातों को प्रचारित करता है। गूगल भी उसी समूह का सहयोग करते पाया जा रहा है अतः जनसामान्य तक उचित बातों को जनसामान्य ही पहुंचा सकता है इसके लिये आपको भी अधिकतम लोगों से साझा करने की आवश्यकता है।